तिन्त्रिणी
Tamarind | ||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||||||
| ||||||||||||||||||||
द्विपदनाम | ||||||||||||||||||||
Tamarindus indica L. | ||||||||||||||||||||
इयम् अपि भारते बर्धमानः, उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । अयं तिन्त्रिणीवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः अपि । अयं वृक्षः भारतस्य सर्वेषु प्रदेशेषु वर्धते, दक्षिणभारते अधिकतया दृश्यते । तद्विना चीनादेशे अधिकतया वर्धते । अयं वृक्षः ३० – ३५ पादमितः उन्नतः भवति । अस्य पर्णानि लघ्वाकारकाणि, संयुक्तानि च । अस्य वृक्षस्य फलानि ३ – ४ अङ्गुलं यावत् दीर्घाणि भवन्ति । फलानाम् अन्तः कपिलवर्णीयाणि ५ – ६ बीजानि भवन्ति । इमानि फलानि आम्लानि भवन्ति । पर्णानि अपि आम्लानि भवन्ति । तानि फलानि पाके अपि उपयुज्यन्ते । संस्कृते अस्य वृक्षस्य “चिञ्चा” इति अपरं नाम अस्ति । अस्मिन् तिन्त्रिणीफले ५ % यावत् टार्टरिक् आम्लं, ४ % यावत् सिट्रिक् आम्लं, मालिक् आम्लम्, एसिटिक् आम्लं, ८ % यावत् पोट्याषियं टार्टरिक्, २५ – ४० % यावत् शर्करा, निर्यासः, डेकटिन् इत्यादयः अंशाः भवन्ति । अस्य बीजे ट्यानिक् मेदः, आल्ब्ग्युमिनोय्ड्, कार्बोहैड्रेट्, ६३.२२ % यावत् दलस्नसा, ससारजनकं, रञ्जकं चापि विद्यते ।
इतरभाषाभिः अस्य तिन्त्रिणीवृक्षस्य नामानि
[सम्पादयतु]हिन्दीभाषया “इम्लि” इति, तेलुगुभाषया “बेण्टापण्डु” इति, तमिळ्भाषया “पुलियां पलाम्” इति, कन्नडभाषायां “हुणसे मर” इति च उच्यते । एषा तिन्त्रिणी आङ्ग्लभाषायां Tamarind इति उच्यते । अस्याः तिन्त्रिण्याः वैज्ञानिकं नाम अस्ति Tamarindus indica इति । एषा तिन्त्रिणी प्रायः समग्रे भारते उपयुज्यते । दक्षिणभारते तु तिन्त्रिणी प्रतिदिनम् इव उपयुज्यते । सारस्य, क्वथितस्य, व्यञ्जनस्य, उपसेचनस्य वा निर्माणे तिन्त्रिण्याः उपयोगः क्रियते । तमिळुनाडुराज्ये तु तिन्त्रिणिप्रधानम् एव “पुळियोगरे” नामकं खाद्यविशेषं निर्मान्ति । (पुळियोगरे इत्यस्य संस्कृते “आम्लान्नम्” इति वक्तुं शक्यते)। अस्याः बङ्गभाषायां नाम वर्तते "तेँतुल्" अथवा "तिस्तिड़ी" इति, ओड़िआभाषायां च "तेन्तुळि" इति। एतस्याः तिन्त्रिण्याः संस्कृते “चिञ्चा” इति अपि नाम अस्ति ।
आयुर्वेदस्य अनुसारम् अस्य तिन्त्रिणीवृक्षस्य प्रयोजनानि
[सम्पादयतु]अस्य वृक्षस्य रसः आम्लः, गुणः गुरु, रूक्षः चापि ।
- • इयं तिन्त्रिणी कफं शमयति ।
- • अग्निमान्द्ये, अरुचौ चापि तिन्त्रिणी उपयुज्यते ।
- • इयम् उदरबाधां, गुल्मं, मलबद्धतां चापि निवारयति ।
- • बालानां ज्वरावसरे, आतपस्य बाधायां च अस्याः पानकस्य उपयोगः क्रियते ।
- • शोथे अस्य तिन्त्रिणीफलस्य लेपः क्रियते ।
- • अतिसारे अस्य बीजस्य चूर्णं हितकरम् ।
- • ज्वरावसरे अस्य पर्णानां रसः उपयुज्यते ।
- • मूलव्याधौ अस्य पर्णानां स्वरसः हितकरः ।
- • कण्ठवेदनायाम् अस्य बीजस्य चूर्णं जले योजयित्वा उपयुज्यते ।
आयुर्वेदस्य अनुसारम् अस्याः तिन्त्रिण्याः स्वभावः
[सम्पादयतु]एषा तिन्त्रिणी आम्लरसयुक्ता, गुणेषु गुरुगुणयुक्ता च ।
- १. तिन्त्रिणी पित्तं, कफं, रक्तं च वर्धयति, प्रकोपयति च ।
- २. तिन्त्रिणी वातं शमयति ।
- ३. तिन्त्रिणी रूक्षा, उष्णा च ।
- ४. तिन्त्रिणी अग्निदीपिका, कफवातहारिणी च ।
- ५. तिन्त्रिणीं जीरिकया, गुडेन सह समप्रमाणेन योजयित्वा जलमयं कृत्वा सेवनेन दाहः (पिपासा) निवारितः भवति । मुखे रुचिः अपि वर्धते ।
- ६. तिन्त्रिणीं मार्काण्डिकपत्रेण (Senna) सह सेवनेन मलस्य अवरोधः निवारितः भवति ।
- ७. तिन्त्रिणीपर्णस्य पेषणं कृत्वा व्रणस्य शोथे लेपनेन व्रणः शोथः च अपगच्छति ।
- ८. आम्लपित्तरोगेण बाधिताः तिन्त्रिण्याः उपयोगं न कुर्युः ।
- ९. पित्तरक्तदोषे सति अपि तिन्त्रिणी न उपयोक्तव्या ।
- १०. चर्मरोगिभिः अपि तिन्त्रिण्याः उपयोगः न करणीयः ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Tamarindus indica in Brunken, U., Schmidt, M., Dressler, S., Janssen, T., Thiombiano, A. & Zizka, G. 2008. West African plants – A Photo Guide. www.westafricanplants.senckenberg.de.
- Chisholm, Hugh, ed (1911). "Tamarind". Encyclopædia Britannica (11th ed.). Cambridge University Press.