विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७७८ पृष्ठानां सङ्ग्रहः विद्यते ।
गुरुवासरः, अक्टोबर् २४, २०२४; समयः- २०:२४ UTC
मनुर्भव ॥ (ऋग्वेदः १०-५३-६)
चिन्तनशीलो भव ।
विश्वे संस्कृतभाषायां विद्यमाना विशदता वा सूक्ष्मतया कृतं व्याकरणं वा अन्यस्यां भाषायां -ग्रीकभाषायामपि –नैव द्र्ष्टुं शक्यते । भारतं न केवलं सर्वस्यापि मूलं किन्तु बौद्धिक-धार्मिक-राजनैतिकविषयेषु सर्वत्रापि अत्युत्कृष्टं वर्तते । भारतीयसंस्कृत्याः पुरतः ग्रीकसंस्कृतिरपि म्लाना एव दृश्यते ।
राज्ञः सम्बोधनं किं स्यात् ? सुग्रीवस्य तु का प्रिया ? अधनास्तु किमिच्छन्ति ? आर्तैः किं क्रियते वद ॥ 'देव !' - राज्ञः सम्बोधनम् । 'तारा' - सुग्रीवस्य प्रिया । 'धनम्' - निर्धनैः इष्यते । अर्थिभिः किं क्रियते ?
उत्तरम्
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ कश्चन अचिन्तयत् - ‘मनः (मनश्शब्दः) नपुंसकम् । तत् प्रियायाः समीपं प्रेष्यते चेत् न काऽपि हानिः’ इति । अतः प्रियायाः समीपं मनः प्रेषितवान् सः । किन्तु तत् मनः तत्रैव रममाणम् अतिष्ठत् । अतः सः विषादेन वदति - ‘‘मनश्शब्दं नपुंसकलिङ्गं कुर्वता पाणिनिना वयं हताः’’ इति । ‘मनश्शब्दः’ नपुंसकः अस्ति चेत् ‘मनः’ अपि नपुंसकं स्यादिति नास्ति नियमः । एतत् अजानता तेन कष्टम् अनुभूतं यत् तदर्थं तस्मै विषीदामः वयम् ।
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh