[go: up one dir, main page]

सामग्री पर जाएँ

मुखम्

विकिशब्दकोशः तः
मुखम्

संस्कृतम्

[सम्पाद्यताम्]
  • मुखं, वदनं, आननं, वक्त्रं, घनवरं, चुब्रं, मुखादित्वं, मुखमण्डलं, प्रतीकम्।
  • मुखं शरीरस्य किञ्चन अङ्गम् अस्ति । मुखं एव कस्यापि प्राणिनः व्यक्तेः परिचये प्रमुखं स्थानं वहति । अस्मिन् वदने नासिका, नेत्रे, मुखं, कपोलः, चिबुकं, ललाटं, भ्रूः, पक्ष्म चापि अन्तर्भवन्ति ।

अनुवादाः

[सम्पाद्यताम्]

उदाहरणानि

[सम्पाद्यताम्]
  • सीता मुखं सुन्दरम् अस्ति।
  • चन्द्र इव मुखम्। मुखमिव चन्द्रः।

कोसश्हप्रामाण्यम्

[सम्पाद्यताम्]

thमुखम्

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखम्, क्ली, (खनति विदारयति अन्नादिकमनेन खन्यते विधात्रा सुखमनेति वेति । खन् + “डित्- खनेर्मुट् चोदात्तः ।” उणा० । ५ । २० । इति करणे अच् । स च डित् मुडागमश्च ।) शरीरावयवविशेषः । स तु मुखविवरम् ॥ (तन्निरुक्तिर्यथा, -- ‘प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः ।’ इत्यमरटीकाधृतम् ।) कवयस्तु तदुपलक्षिते समुदाये प्रयुञ्जते । इति भरतः ॥ तत्तु गर्भस्थस्य पञ्चमासैर्भवति । इति सुखबोधः ॥ तत्पर्य्यायः । वक्त्रस् २ आस्यम् ३ वदनम् ४ तुण्डम् ५ आननम् ६ लपनम् ७ । इत्यमरः । २ । ६ । ८९ ॥ (यथा, नैषधचरिते ९ । ४४ । “मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः ।”) तस्य स्वरूपं यथा, -- ‘ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥’ इति भावप्रकाशः ॥ रतिक्रियायां स्वस्त्रीमुखस्य स्नेहात् स्वबालक- मुखस्य च चुम्बने शुद्धत्वं यथा, -- “मक्षिका सन्तता धारा मार्ज्जारो ब्रह्मबिन्दवः । स्त्रीमुखं बालकमुखं न दुष्टं मनुरब्रवीत् ॥” इति कर्म्मलोचनम् ॥ * ॥ निःसरणम् । इत्यमरः । २ । ३ । १९ ॥ तत्तु गृहस्य निष्क्रमणप्रवेशनवर्त्म । इति सर्व्वधरा- दयः । गृहादिद्वारप्रवेशः । इति स्वामी । हट्ट- मण्डपादेः प्रवेशनिर्गमः । इति कोक्कटः । गृहाङ्गणादिनिःसरणपथः । इति रमानाथः । इत्यमरटीकायां भरतः ॥ प्रारम्भः ॥ (यथा, रघुवंशे । ३ । १ । “अथेप्सितं भर्त्तुरुपस्थितोदयं सखीजनोद्बीक्षणकौमुदीमुखम् । निदानमिक्षाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥” “कौमुद्याः मुखं प्रारम्भम् ।” इति तट्टीकायां मल्लिनाथः ।) उपायः ॥ सन्धिविशेषः ॥ (यथा, दशरूपके । १ । २३ । “मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा । अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥”) नाटकादेः शब्दः । इति मेदिनी । खे, ४ ॥ आद्यम् ॥ (यथा, रामायणे । २ । ५० । ७ । “अचक्षुर्विषयं प्रायाद् यथार्कः क्षणदामुखे ॥”) प्रधानम् ॥ (यथा, महाभारते । २ । ३८ । २७ -- २९ । “राजा मुखं मनुष्याणां नदीनां सागरो मुखम् । नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् ॥ पर्व्वतानां मुखं मेरुर्गरुडः पततां मुखम् । सदेवकेषु लोकेषु भगवान् केशवो मुखम् ॥”) शब्दः । नाटकः । वेदः । इति शब्दरत्नावली ॥ (द्बारम् । यथा, रघुवंशे । ३ । २८ । “लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥” “नद्या मुखं द्वारम् । मुखन्तु वदने मुख्यारम्भे द्वाराभ्युपाययोरिति यादवः ।” इति तट्टीकायां मल्लिनाथः ॥ अग्रभागः । यथा, हठयोगप्रदीपि- कायाम् । ३ । ५ । “तस्मात् सर्व्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुखम् [mukham], [खन् अच् डित् धातोः पूर्वं मुट् च cf. Uṇ.5.2]

The mouth (fig. also); प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः; ब्राह्मणो$स्य मुखमासीत् Ṛv.1.9.12; सभ्रूभङ्गं मुखमिव Me.24; त्वं मम मुखं भव V.1 'be my mouth or spokesman'.

The face, countenance; परिवृत्तार्धमुखी मयाद्य दृष्टा V.1.17; नियमक्षाममुखी धृतैकवेणिः Ś.7.21; so चन्द्रमुखी, मुखचन्द्रः &c.; ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥

The snout or muzzle (of any animal).

The front, van, forepart; head, top; (लोचने) हरति मे हरिवाहनदिङ्मुखम् V.3.6.

The tip, point, barb (of an arrow), head; पुरारि- मप्राप्तमुखः शिलीमुखः Ku.5.54; R.3.57.

The edge or sharp point (of any instrument).

A teat, nipple; मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्य- लभ्यम् Ku.1.4; R.3.8.

The beak or bill of a bird.

A direction, quarter; as in अन्तर्मुख.

Opening, entrance, mouth; नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः Ś.1.14; नदीमुखेनेव समुद्रमाविशत् R.3.28; Ku.1.8.

An entrance to a house, a door, passage.

Beginning, commencement; सखीजनोद्वीक्षणकौमुदीमुखम् R.3.1; दिनमुखानि रविर्हिमनिग्रहैर्विमलयन् मलयं नगमत्यजत् 9.25;5.76; Ghaṭ.2.

Introduction.

The chief, the principal or prominent (at the end of comp. in this sense); बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान् Bv.4.21; so इन्द्रमुखा देवाः &c.

The surface or upper side.

A means.

A source, cause, occasion.

Utterance; as in मुखसुख; speaking, speech, tongue; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः Pt.4.44.

The Vedas, scripture.

(In Rhet.) The original cause or source of the action in a drama.

The first term in a progression (in alg.).

The side opposite to the base of a figure (in geom.).

Comp. अग्निः a forest conflagration.

a sort of goblin with a face of fire.

the consecrated or sacrificial fire.

fire put into the mouth of a corpse at the time of lighting the funeral pile.

a Brāhmaṇa. -अनिलः, -उच्छ्वासः breath. -अस्त्रः a crab. -आकारः look, mien, appearance.

आक्षेपः an invective.

the act of throwing up soil with the ploughshare. -आसवः nectar of the lips. -आस्रवः, -स्रावः spittle, saliva. -आस्वादः kissing the mouth; Y. -इन्दुः a moon-like face, i. e. a round lovely face. -उच्छ्वासः breath. -उल्का a forest-conflagration. -कमलम् a lotuslike face. -खुरः a tooth. -गन्धकः an onion. -गोपनम् concealment of the face; अवधीरितमुखमण्डलमुखगोपनं किमिति Udb. -ग्रहणम् kissing the mouth. -घण्टा f. hurraying of women in festivities. -चन्द्रः a moon-like face. -चपलa. talkative, garrulous. -चपेटिका a slap on the face.-चालिः an introductory dance; -चीरिः f. the tongue.-चूर्णम् scented powder to smear the face with; छविकरं मुखचूर्णमृतुश्रियः R.9.45.

जः a Brāhmaṇa.

a tooth.-जाहम् the root of the mouth. -दूषणः an onion.-दूषिका an eruption disfiguring the face. -दोषः fault of the tongue; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः Pt.4.44.-निरीक्षकः a lazy fellow, an idler. -निवासिनी an epithet of Sarasvatī. -पटः a veil; कुर्वन् कामं क्षणमुखपट- प्रीतिमैरावतस्य Me.64. -पाकः inflammation of the mouth; द्राक्षाविपाकसमये मुखपाको भवति काकानाम् Udb. -पिण्डः a mouthful of food; cf. को न याति वशं लोके मुखपिण्डेन पूरितः Bh.2.118. -पुष्पकम् a kind of ornament.

पूरणम् filling the mouth.

a mouthful of water, a mouthful in general. -प्रसादः a pleased countenance, graciousness of aspect. -प्रसाधनम् dacorating the face.-प्रियः an orange. (-यम्) cloves. -प्रेक्ष a. observing or watching the face. -फुल्लकम् a kind of ornament.-बन्धः a preface, an introduction.

बन्धनम् a preface.

a lid, cover. -भगा (a woman) who suffers her mouth to be used as a vulva.

भङ्गः a blow on the face.

wry face, grimace. -भूषणम् a preparation of betel; see ताम्बूल.

भेदः distortion of the face.

gaping. -मण़्डनकः a kind of tree (तिलक).-मण्डलम् the (round) face. -मधु a. honey-mouthed, sweet-lipped. -माधुर्यम् a particular disease of the phlegm. -मारुतः breath. -मार्जनम् washing the face.-मुद्रा silence; यापदृष्टिरपि या मुखमुद्रा N.5.12. -मोदः Hyperanthera Moringa (Mar. शेवगा). -यन्त्रणम् the bit of a bridle. -रज्जुः f. the bridle of a horse. -रसः speech, talk; मधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि क्षमयितुम् Bhag.6.9.41. -रागः the colour or complexion of the face; ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः R.12.8;17.31; तव खलु मुखरागो यत्र भेदं प्रयातः Śi.11.31. -रेखा feature, mien, air. -रोगः a disease of the mouth or face.-लाङ्गलः a hog.

लेपः anointing the face or upper side (of a drum); मृदङ्गो मुखलेपेन करोति मुखरध्वनिम् Bh. 2.118.

a disease of the phlegmatic humour. -वल्लभः the pomegranate tree. -वस्त्रिका a piece of fine cloth (net) held before the face (Mar. बुरखा).

वाद्यम् an instrument of music sounded with the mouth, any wind-instrument.

a sound made with the mouth; (Mar. बोंब). -वासः, -वासनम् a perfume used to scent breath. -विलुण्ठिका a she-goat. -विषमः one of the ways of embezzlement namely misrepresentation of the source of income; Kau. A.2.8. -विष्ठा a species of cockroach. -वैरस्यम् bad taste in the mouth. -व्यादानम् gaping, yawning. -शफ a. abusive, foul-mouthed, scurrilous. -शाला entrance-hall, vestibule. -शुद्धिः f. washing or purifying the mouth. -शृङ्गः a rhinoceros.-शेषः an epithet of Rāhu. -शोधन a.

cleansing the mouth.

pungent, sharp. (-नः) the sharp flavour, pungency.

(नम्) cleansing the mouth.

cinnamon.-शोधिन् m. the citron tree. -शोषः dryness of the mouth. -श्रीः f. 'beauty of countenance', a lovely face. -संदंशः forceps. -संधिः m. A kind of fugue; S. D. 6th Parichcheda. -संभवः a Brāhmaṇa. -सुखम् facility of pronunciation, phonetic ease. -सुरम् the nectar of the lips (अधरामृत). -स्रावः saliva. -हासः cheerfulness or liveliness of countenance; सकमलमुखहासं वीक्षितः पद्मिनीभिः Śi.11.47.

"https://sa.wiktionary.org/w/index.php?title=मुखम्&oldid=506901" इत्यस्माद् प्रतिप्राप्तम्