[go: up one dir, main page]

सामग्री पर जाएँ

गण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डः, पुं, (गडि आस्यैकदेशे + अच् । यद्बा गम गतौ + “ञमन्ताड्डः ।” उणां । १ । ११३ । इति डः ।) हस्तिकपोलः । (यथा, पञ्चतन्त्रे । १ । ३५६ । “प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युतेः । पदं मूर्द्ध्नि समाधत्ते केशरी मत्तदन्तिनः ॥”) तत्पर्य्यायः । कटः २ । इत्यमरः । २ । ८ । ३७ ॥ करटः ३ । इति तट्टीका ॥ कटकः ४ हस्ति- गण्डकः ५ । इति शब्दरत्नावली ॥ कपोलः । इत्यमरः । २ । ६ । ९० ॥ गाल इति भाषा ॥ (यथा, कुमारे । ७ । ८२ । “तदीषदार्द्रारुणगण्डलेखं उच्छासिकालाञ्जनरागमक्ष्णोः ॥”) खड् गी । वीथ्यङ्गम् । पिटकः । चिह्नम् । वीरः । हयभूषणम् । वुद्वुदः । इति मेदिनी ॥ स्फोटकः । ग्रन्थिः । इत्यमरटीकायां रमानाथः ॥ विष्कुम्भादिसप्तविंशतियोगान्तर्गतदशमयोगः । (यथा, ज्योतिषवचने । “गण्डो वृद्बिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥”) तत्र जातफलम् । “स्वकार्य्यकर्त्ता परकार्य्यहर्त्ता गण्डोद्भवः स्यादतिगण्डवाक्यः । अत्यन्तधूर्त्तः पुरुषः कुरूपः सुहृद्गणानामतितापदाता ॥” इति कोष्ठीप्रदीपः ॥ * ॥ दोषजनकोऽश्विन्यादिनक्षत्राणां भागविशेषः । यथा, -- “अश्विनीमघमूलानां तिस्रो गण्डाद्यनाडिकाः । अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव जवना जगुः ॥ मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः । सन्ध्याद्वये तथा ज्ञेयो रेवतीतुरगर्क्षयोः ॥” * ॥ तत्र जातस्य दोषो यथा, -- “सन्ध्यारात्रिदिवाभागे गण्डयोगोद्भवः शिशुः । आत्मानं मातरं तातं विनिहन्ति यथाक्रमम् ॥” तस्य शान्तिर्यथा, -- “सर्व्वेषां गण्डजातानां परित्यागो विधीयते । तातेनादर्शनं वापि यावत् पाण्मासिको भवेत् ॥ कुङ्कुमं चन्दनं कुष्ठं गोरोचनमथापि वा । घृतैरेवान्वितं कृत्वा चतुर्भिः कलसैर्ब्बुधः ॥ सहस्राक्षेण मन्त्रेण बालकं स्नापयेत्ततः । पितृयुक्तं दिवाजातं मातृयुक्तञ्च रात्रिजम् ॥ स्नापयेत् पितृमातृभ्यां सन्ध्ययोरुभयोरपि । कांस्यपात्रं घृतैः पूर्णं गण्डदोषोपशान्तये ॥ दद्याद्धेनुं हिरण्यञ्च ग्रहांश्चापि प्रपूजयेत् । मूलायाः प्रथमे पादे पितुर्व्वपुर्व्विनश्यति ॥ द्वितीये नियतां पीडां मातुः कुर्य्यात् पितुस्तथा । तृतीये धननाशाय चतुर्थे सर्व्वसम्पदः ॥ व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ब्बवत् । वल्मीकमृत्तिकां नद्यास्तूभयतटमृत्तिकाम् ॥ गोविषाणमृदञ्चापि दन्तिमृदञ्च निःक्षिपेत् । तीर्थाम्भःपञ्चगव्येन स्नानं मातुः पितुः शिशोः ॥ दिवा जाता तु या कन्या निशि जातस्तु यः पुमान् । नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पर्व्वतम् ॥” इति ज्योतिषतत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्ड पुं।

कपोलः

समानार्थक:गण्ड,कपोल

2।6।90।2।2

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी। अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥

अवयव : कपोलाधोभागः

पदार्थ-विभागः : अवयवः

गण्ड पुं।

गजगण्डः

समानार्थक:गण्ड,कट,करट

2।8।37।1।1

गण्डः कटो मदो दानं वमथुः करशीकरः। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्ड¦ पु॰ गडि + वदनैकदेशे अच्।

१ कपोले(गाल)

२ हस्तिकपोलेच अमरः।

३ गण्डके पुंस्त्री॰

४ वीथ्यङ्गे

५ पिटके

६ चिह्ने

७ वीरे

८ हयभूषणे

९ बुद्वुदे च मेदि॰।

१० स्फोटके

११ ग्रन्थौ रमा-नाथः। विष्कुम्भादिषु

१२ दशमे योगे।

१३ अश्विन्यादिनक्ष-त्राणां दण्डभेदे। गण्डमाह ज्ये॰ त॰
“अश्विनी मथ-मूलानां तिस्रो गण्डाद्यनाडिकाः। अन्त्याः पौष्णोर-गेन्द्राणां पञ्चैव जवना जगुः। मूलेन्द्रयोर्दिवा गण्डोनिशायां पितृसर्पयोः। सन्ध्याद्वये तथा ज्ञेयो रेवती-तुरगर्क्षयोः। तत्र जातस्य दोषा यथा। सन्ध्यारात्रिदिवाभागे गण्डयोगोद्भवः शिशुः। आत्मानं मातरंतातं विनिहन्ति यथाक्रमम्”
“मूलयाः प्रथमे पादेपितुर्वपुर्विनश्यति। द्वितीये नियतां पीडां मातुःकुर्य्यात् पितुस्तथा। तृतीये धननाशञ्च चतुर्थे सर्व-सम्पदः। व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ववत्। ”
“दिवा जाता तु या कन्या निशि जातस्तु यः पुमान्। नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पार्वतीम्। ” विस्तरस्तु मुहूर्त्तचिन्तामणौ पीयूषधारायाञ्चोक्तो यथा।
“अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठान्त्यमूलादिभवं हिनारदः। वसिष्ठ एकद्विघटीमितं जगौ वृहस्पतिस्त्वेक-घटीप्रमाणकम्। अथोचुरन्ये प्रथमाष्टघट्योमूलस्य शा-क्रान्तिमपञ्चनाड्यः। जातं शिशुं तत्र परित्यजेद्वासुखं पिताऽस्याष्टसमा न पश्येत्”।
“आद्ये पिता[Page2507-b+ 38] नाशमुपैति मूलपादे, द्वितीये जननी तृतीये। घनं चतु-र्थोऽस्य शुभोऽथ शान्त्या सर्वत्र सत् स्यादहिभे विलोमम्। स्वर्गे शुचिप्रोष्ठपदेषमाघे भूमौ नभःकार्त्तिकचैत्रपौषे। मूलं ह्यधस्तात्तुतपस्यमार्गबैशाखशुक्रेष्वशुभं च तत्र। गण्डान्तेन्द्रभशूलपातपरिघव्याघातगण्डावमे संक्रान्तिव्यतिपातवैधृतिसिनीबालीकुहूदर्शके। वज्रे कृष्णचतु-र्द्दशीषु यमघण्टे दग्धयोगे मृतौ विष्टौ सोदरभे जनिर्नपितृभे शस्ता शुभा शान्तितः” मु॰ चि॰। एतद्व्याख्या पी॰ धा॰(
“अत्राभुक्तमूलस्यानेके भेदाः तत्रैकस्तावदयं भेदः ज्ये-ष्ठानक्षत्रान्तेभवं ज्येष्ठान्त्यं मूलादौ भवं मूलादिभवंज्येष्ठान्त्यजातं घटीचतुष्टयं मूलादिजातं घटीचतुष्टयंमिलित्वाष्टौ घटिकाः प्रहर इति यावत्ताबान् कालोऽभुक्तमूलाख्यः (गण्डाख्यः) इति नारद आह (उप-लक्षणत्वादश्लेषान्तिमघटीचतुष्टयं मघादिमघटीचतुष्टयंचाभुक्तमूलाख्यः कालः यदाह नारदः
“यो ज्येष्ठामूल-योरन्तरालप्रहरजः शिशुः। अभुक्तमूलजः सार्पमघानक्षत्र-योरपीति”। तथापरोभेदः एकेति ज्येष्ठान्ते एकघटीमितंमूलादौ घटीद्वयमितमेवं मिलित्वा त्रिघटिकमभुक्तमूलं स्वा-दिति वसिष्ठमुनिर्जगौ यदाह वसिष्ठः
“ज्येष्ठान्त्यपादघटि-कामितमेव केचिन् मूलं ह्यभुक्तमपरे पुनरामनन्ति। मूला-द्यपादघटिकाद्वितयेन सार्द्धमष्टौ समाःपरिहरेदिह जन्म-भाजमिति” समा वर्षाणि। अथान्योभेदः एकेति ज्येष्ठान्त्या-र्द्धघटिका मूलाद्यार्द्ध घटिका मिलित्वा एकघटी प्रमाणमस्यतदेकघटीप्रमाणकं
“शेषाद्विभाषा” इति पा॰ कप् तादृशमभुक्त-मूलं स्यादिति वृहस्पतिर्जगौ तदाह गुरुः
“ज्येष्ठान्त्यघटि-कार्द्धञ्चमूलादौ घटिकार्द्धकम्। तयोरन्तर्गता नाडी ह्यभुक्त-मूलमुच्यत” इति अथेतरो भेदः अथेति अथशब्दः पादपूरणेमूलनक्षत्रस्य प्रथमा आदिमा अष्ट घटिकाः शाक्रस्य ज्ये-ष्ठायाः अन्तिमाः षञ्च नाड्यः पञ्च घटिकाः। एवमुभयो-र्ज्येष्ठा मूलयोरन्तरालवर्त्तिन्यस्त्रयोदशघटिका अभुक्तमूल-मिति लोका ऊचुः।
“ज्येष्ठान्त्यघटिकाः पञ्च मूलाद्यावसुनाडिकाः। अभुक्तमूलमित्युक्तं तत्र जातं शिशुं त्यजे-दिति” स्मरणात्। एवमभुक्तमूलस्यानेकभेदसम्भवे कः सा-धीयान् पक्ष इति चेत् उच्यते नारदोक्तः पक्ष एवसाधीयान् किमत्र प्रमाणमिति चेत् शृणु बहुमुनिसं-वाद एवात्र प्रमाणं तदाह कश्यपः न्येष्ठान्त्यमूलयो-रन्तरालयामोद्भवः शिशुः। अभुक्तमूलजः सोऽप्य-श्लेषापितृभयोरपीति”। वसिष्ठोऽपि
“भुजङ्गपौर-[Page2508-a+ 38] न्दरपौष्णभानां तदग्रभानाञ्च यदन्तरालम् अभुक्त-मूलं प्रहरप्रमाणं त्यजेत् सुतं तत्र भवां सुताञ्चेति”। अतएव पूर्वमुक्ते वसिष्ठवाक्ये केचिदित्यन्यमताभिप्रायेणयतस्तद्वाक्ये केचिदिति अपरे इति चेत्युक्तिरस्ति यद्येवंषटीन्यूनाधिकभावाभिधायिनां प्रागुक्तवाक्यानां कागतिरिति चत्। उच्यते दोषस्याधिक्याल्पत्वसूचनमेवगतिः। अथाभुक्तमूलसंज्ञाकथनस्य प्रयोजनमाह जात-मिति। तत्राभुक्तमूलाख्ये काले जातं शिशुं वालकम्उपलक्षणत्वात्तत्र जातां कन्यां वा पिता परित्यजेन्नि-ष्कासयेत्
“त्यजेत् सुतं तत्रभवां सुताञ्चेति” वसिष्ठोक्तेः। यद्यशक्यं निष्कासनं स्यात्तदा किं कार्य्यमित्यत आह-वेति वा अथ वा पूर्वपक्षकर्त्तव्यताशक्तौ पिताऽस्य शिशोःकन्याया वा मुखमष्ट समाः अष्टौ वर्षाणि
“संवत्सरोवत्सरोऽव्दो हायनोऽस्त्री शरत्समा” इत्यमरः तावत्कालं न पश्येत् यदाह नारदः
“अभुक्तमूलजं पुत्रं पुत्री-मपि परित्यजेत्। अथवाव्दाष्टकं तातस्तन्मुखं नविलोकयेदिति”। च्यवनोऽपि
“अभुक्तमूलभेभवं परि-त्यजेच्च बालकम्। समाष्टकं पिताऽथ वा न तन्मुखंविलोकयेत्” इति गण्डान्तदोषस्तु विवाहप्रकरणे वक्ष्यतइति कृत्वाऽत्र नोक्तः (तच्चोपयमशब्दे

१२

५८ पृ॰ दर्शितम्)। अथ प्रसङ्गान् मूलाश्लेषा जातस्य बालस्य चरणवशेनशुभा-शुभफलमुपजात्याह आद्ये इति मूलनक्षत्रस्याद्ये पादेप्रथमे चरणे चतुर्थांशे इति यावत् तत्र जातस्य शिशोःकन्याया वा पिता नाशं मरणमुपैति प्राप्नोति तथा मूल-द्वितीयपादे जननी माता नाशमुपैति। तथा तृतीयमूल-पादे धनं द्रव्यं नाशमुपैति चतुर्थो मूलपादोऽस्य शिशोःशुभः शुभफलदः। उक्तञ्च व्रह्मपुराणे
“मूलाद्येंऽशे पितु-र्नाशो द्वितीये मातुरेव च। तृतीये धनधान्यादिनाश-स्तुर्य्ये धनागमः” इति। तुर्य्ये चतुर्थे रत्नमालायाम्
“तदाद्यपादके पिता विपद्यते जनन्यथ। तृतीयकेघनक्षयश्चतुर्थकः शुभावहः” इति। अत्र पितुर्बहुस्त्रीकत्वेऽपि स्वमातुरेव नाशो वाच्यो न सापत्नमातुःयदाह कश्यपः
“मूलाद्यपादजो हन्ति पितरन्तुद्वितीयजः। मातरं स्वां तृतीयोऽर्थान् सुहृदश्च तुरीयजः” इति। यतो मातृशब्दः सापत्नमातुरपि वाचकः। यदाह गौतमः
“पितृपत्न्यः सर्वा मातरस्तद्भ्रातरोमातुलास्तदपत्यानि मातुलेयानीति। अतः स्पष्टार्थमेवकश्यपवाक्ये स्वामिति पदोपादानम्। अत्र विशेषो[Page2508-b+ 38] वसिष्ठसंहितायां
“मूलाद्यपादो दिवसे यदि स्यात्तज्जःपितुर्नाशनकारणं स्यात्। द्वितीयपादो यदि रात्रि-भागे तदुद्भवो मातृविनाशकःस्यात्। मूलाद्यपादो यदिरात्रिभागे तदात्मनो नास्ति पुनर्विनाशः। द्वितीयपादोदिनगो यदि स्यान्न मातुरल्पोऽपि तदास्ति दोषः” इति। नारदसंहितायाञ्च
“दिवाजातस्तु पितरं रात्रौ तुजननीं तथा। आत्मानं सन्ध्ययोर्हन्ति नान्यगण्डंविवर्जयेदिति”। एतदेव मातापितृगण्डमिति जीर्णाव्यवहरन्ति। अथ दोषसत्त्वे किं कार्य्यमत आहअथेति। अथानन्तरं शान्त्या मूलाश्लेषाशान्त्या-स्वनुष्ठितया सर्वत्र चरणचतुष्टयेऽपि शुभमनिष्टफल-नाशकं कल्याणं स्यात् उक्तञ्च वसिष्ठेन
“नैरृत्यभौज-ङ्गमगण्डदोषनिवारणायाभ्युदयाय नूनम्। पितामहोक्तांरुचिरां च शान्तिं प्रवच्मि लोकस्य हिताय सम्यक्। शा-स्त्रोक्तरीत्या खलु सूतकान्ते मासे तृतीयेऽप्यथ वत्सरान्ते” इति। नैरृत्यं मूलं तद्दीषः। भौजङ्गमश्लेषा तद्दोषःगण्डो वक्ष्यमाणस्तद्दोषश्च द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येक-मभिसम्बध्यत इति न्यायात् अतस्तद्दोषाणां निवारणंतदर्थम् अतएव कश्यपेन
“तद्दोषशमनार्थे हि शान्तिंकुर्य्यात् प्रयत्नतः” इति सामान्यत उक्तम्। अत्र वसिष्ठवाक्येकालत्रयकथनं सामर्थ्यासामर्थ्यकृतं ध्येयं तथा हियदि मातुः शीतोदकस्नाने सामर्थ्यं स्यात् तदा सूतकान्तएव शान्तिस्तत्राप्यशक्तौ तृतीये मासि शान्तिः दीर्घरोगा-दिना तदाप्यशक्तिश्चेत्तर्हि वर्षसमाप्तिदिवसे शान्तिः। मा-तृगण्डे तु विशेषस्तेनैवोक्तः
“मातृगण्डे सुते जाते सू-तकान्ते विचक्षणः। कुर्य्याच्छान्तिं तदृक्षे वा तद्दोषस्या-पनुत्तये इति” शिष्टास्तु सर्वत्र यस्मिन्नक्षत्रे जन्म तन्नक्षत्रएव शान्तिरिति व्यवहरन्ति। ननु मूलपादचतुष्टयेऽपिशान्तिः कर्त्तव्येत्युक्तं तत्र चतुर्थचरणस्य शुभफलत्वात्शान्तिरयुक्तेति प्रतिभाति
“अनिमित्तकृता शान्तिर्निमि-त्तायोपजायते” स्मरणात्। उच्यते यद्यपि चतुर्थचरणेधनागमरूपं शुभफलमभिहितं तथापि कश्यपेन
“सु-हृदश्चतुरीयजः” इति सुहृन्नाशरूपस्य फलस्यानिष्टस्योक्तेस्त्रदपाकरणार्थमवश्यं कर्त्तव्या शान्तिः। न हि कस्य-चिद्वैरिनाशवन्मातुलाद्यनेकसुहृन्नाश इष्टः मूलवृक्ष-पादे पुरुषकन्ययोरशुभफलकथनाच्च। मूलवृक्षस्तु समन-न्तरमेव मया वक्ष्यते यदि मूलाश्लेषादिदोषसम्भवे शान्तिर्न क्रियते तदानिष्टं भवति एवेत्याह नारदः
“वत्स-[Page2509-a+ 38] रात् पितरं हन्ति मातरं तु त्रिवर्षतः। द्युम्नं वर्षद्वये-नैव श्वशुरं नववर्षतः। जातं बाल वत्सरेण बर्षैः पञ्च-भिरग्रजम्। मातुलं चाष्टभिर्वर्षैरनुक्तान् हन्ति सप्तभिः। तस्माच्छान्तिं प्रकुर्वीत प्रयत्नाद्विधिपूर्वकमिति” द्युम्नंधनं तस्मादवश्यं चरणचतुष्टयेऽपि शान्तिर्विधेयेति। अहिभे विलोमभिति। अहिभे अश्लेषायामुक्तं फलंविलोमं विपरीतं ज्ञेयं तद्यथा मूलस्य प्रथमे पादे पि-तृनाश इति फलमुक्तं तत्फलमश्लेषाचतुर्थपादोत्पन्नस्यस्यात् मूलस्य द्वितीयपादे मातृनाश इत्युक्तं फलं तद-श्लेषातृतीयचरणोत्पन्नस्य स्यात् अर्थनाशस्ततीयचरणेइत्युक्तं तदश्लेषाद्वितीयपादजातस्य स्यात् मूलस्य चतुर्थपादःशुभ इत्युक्तं तदश्लेषाप्रथमचरणोत्पन्नस्य स्यादित्यर्थः। तदाह कश्यपः
“फलं तदेव सार्पर्क्षे प्रतीपं त्वन्त्यपा-दतः” इति। वसिष्ठोऽपि
“मूलाद्यपादजनितः पितरंनिहन्ति द्वैतीयजः स्वजननीं त्रिपदेऽर्थवृन्दम्। तौरी-यजः शुभकरः फलमेतदेव वैलोमतो भुजगधिष्ण्यभवस्यसर्वमिति”। द्वितीय एव द्वैतीयः प्रज्ञादेराकृतिगणत्वात्स्वार्थेऽण् एवं तौरीयवैलोमशब्दौ साध्यौ। अयमर्थःस्पष्टमुक्तो भास्करव्यवहारे
“सार्पांशे प्रथमे राज्यं द्वि-तीये तु धनक्षयः। तृतीये जननीनाशश्चतुर्थे मरणं पि-तुरिति”। अंशश्चरणः अत्र लग्नादिदौष्ट्ये सति दुष्टंफलमविकलं भवतीत्याह बादरायणः
“मूलसार्पादिजंदौष्ट्यं स्यात् सम्प्रूर्णन्तु लग्नपे। सक्रूरेऽब्जे च विबलेशुभवृष्टिविवर्ज्जिते” इति। अतः यथा अश्लेषादौष्ट्येऽपिशान्तिकं विधेयं तथाश्लेषान्त्यमघादिस्थान्तरालप्रहरात्मकाभुक्तमूलाख्यकालोयोऽभिविहितस्तत्रोत्पन्नस्यापि शान्तिकंविधेयम्। अत्र सम्मतिवाक्य प्रागभिहितं तत्र मूलशान्तिर-श्लेषाशान्तिश्च गण्डान्तेन्द्रमेति पद्यव्याख्यानानन्तरं लिखि-ष्यते”।
“अथात्र प्रसङ्गान्मूलवृक्षविचारोऽभिधीयते जयार्णवेमूलस्तम्भस्त्वचा शाखा पत्रं पुष्पं फलं शिखा। मुनयोऽष्टौदिशो रुद्राः सूर्य्याः पञ्चाङ्घ्रयोऽग्नयः। मूले तु मूल-नाशः स्यात् स्तम्भे वंशविनाशनम्। त्वचि

१० मातुर्भ-वेत् क्लेशः शाखायां

११ सातुलस्य च। पत्रे

१२ राज्यं वि-जानीयात् पुष्पे

५ मन्त्रिपदं स्मृतम्। फले

४ च{??}पुला लक्ष्मीः शिखाया

३ मल्पजीवितमिति” अस्य मूला-ख्यस्य पुरुषस्याङ्गेषु घटीविन्यासस्तत्रैव।
“मूलस्यघठिकान्यासो मूर्ध्निपञ्च

५ नृपो भवेत्। मुखे सप्त

७ मृतिःपित्रोः स्कन्धे वेदा

४ महाबलः। बाह्वोरष्टौ बली[Page2509-b+ 38] पाण्योस्तिस्रो

३ हस्तान्वितो भवेत्। हृदि खेटाः

९ भूपमन्त्री नाभौ द्वौ

२ ब्रह्मविद्भवेत्। गुह्ये दशा

१० ऽति-कामी स्याज्जानुनोः षण्

६ महामतिः। पादयोः षण्

६ मतिस्तस्येत्युक्तवान् कमलासनः” इति। अथ मूलोद्भूता-याः कन्यायाः फलार्थं मूलाङ्गविभागस्तत्रैव।
“चतस्रो

४ नाडिकाः शीर्षे कुर्वन्ति पशुनाशनम्। मुखे षट्

६ धन-हानिश्च कण्ठे पञ्च धनागमः। कौटिल्यं हृदये पञ्चबाह्वोर्बित्तागमं च तत्। वेदाः

४ पाण्योर्दयाधर्म्मंवेदा

४ गुह्येऽतिकामिनी। ज्येष्ठमातुलनाशश्च जङ्घयो-र्युग

४ नाडिकाः। ज्येष्ठभ्रातृविनाशश्च चतस्रो जानु-युग्मके। पादयोर्दश

१० नाड्यश्च तत्र वैधव्यमादिशेत्। इति मूलप्रसूतायाः फलमीरितमीदृशमिति” अस्यार्थःशीर्षे चतस्रो

४ घटिकाः मुखे षट्

६ कण्ठे पञ्च

५ हृदये पञ्च

५ बाह्वोर्बाहुद्वये पञ्चपञ्चेति

५ वीप्सा। पाण्योर्मणिबन्धादधो भागयोश्चतस्र इत्यत्रापि वीप्सा। गुह्ये चतस्रः

४ जङ्घयोर्जङ्घाद्वये द्वे द्वे

२ ।

२ एवञ्चतस्रःजानुद्वये द्वे द्वे एवं चतस्रः पादयोः पादद्वये पञ्चपञ्चे-त्येवं दश

१० एवं मिलित्वा षष्टि

६० र्घटिका भवन्ति। अथाश्लेषाजातयोः पुत्रकन्ययोरङ्गविभागेन फलं तत्रैवो-क्तम् मूर्ध्नि पञ्चसु

५ पुत्राप्तिर्मुखे सप्त

७ पितृक्षयः। नेत्रे द्वे

२ जननीनाशो ग्रीवायां स्त्रीषु लम्पटः। स्कन्धेयेदा

४ गुरौ भक्ति र्हस्तेऽष्टौ

८ च बली भवेत्। हृद्ये-कादशभि

११ श्चात्मघाती संजायते नरः। द्वाभ्यां नाभौभ्रमः, षड्भिर्गुदे नन्दै

९ स्तपोधनः। पादे पञ्च

५ धनं हन्तिसार्पादेतत्फलं क्रंमादिति”। अथाश्लेषावृक्षोऽपि तत्रै-वोक्तः फलं पुष्पं दलं शाखा त्वग्लता कन्द एव च। सार्पवल्या दशा

१० क्षां

५ ङ्कं

९ स्वर

७ विश्वा

१३ र्क

१२ सा-गराः

४ । नाडिकास्तद्भवे बाले फलं ज्ञेयं यथाक्रमम्। श्रीः श्रीराजभयं हानिर्मातृपित्रात्मसंक्षयः” इति। अयञ्च विभागो नक्षत्रस्य षष्टि

६० घटिकात्मकत्वे ज्ञेयःन्यूनाधिकत्वे तु त्रैराशिकमुह्यम्”। वसिष्ठेनान्येष्वपि कियत्सुनक्षत्रेषु जातस्यारिष्टमुक्तं
“चित्राद्यर्द्धे पुष्यमध्ये द्विपादे पूर्वाषाढाधिष्ण्यपादेतृतीये। जातः पुत्रश्चोत्तराद्ये विधत्ते मातापित्रोर्भ्रा-तरं चात्मनाशम्। द्विमासस्वोत्तरादोषः पुष्ये चैवत्रिमासकः। पूर्वाषाढाष्टमे मासि चित्रा षाण्मासिकंफलमिति” अत्रोत्तराशब्देनोत्तराषाढा गृह्यते पूर्वाषा-ढासाहचयात्। अत एष्वपि नक्षत्रेषु यथाशक्तिमूलव-[Page2510-a+ 38] च्छान्तिकं दोषपरिहारार्थं विधेयम् परन्त्वत्र देवताभेदएव केवलं ध्येयः। स च तत्तत्स्वामिकृतः तत्तन्मन्त्राश्चवेदादेवावगन्तव्यास्तच्छान्तिकञ्च तिथिगण्डान्तशान्तावस्मा-भिर्वक्ष्यत इत्यलमतिप्रसङ्गेन” पी॰ धा॰। अथ मूलनिवासंसफलमिन्द्रवज्राच्छन्दसाह स्वर्गे इति शुचिराषाढः प्रौष्ठपदोभाद्रपदः इष आश्विनः माघः प्रसिद्धः एषु मासेषु मूलंमूलनक्षत्रं स्वर्गेऽस्ति स्वर्गे निबासस्तस्य। नभाः श्राबणःअन्ये प्रसिद्धाः श्रावणकार्त्तिकचैत्रपौषेषु भूमौ मूलंतिष्ठति। तपस्यः फाल्गुनः शुक्रो ज्येष्ठः अन्यौ प्रसिद्धौफाल्गुनमार्गशीर्षवैशाखज्यैष्ठेष्वधस्तात्पाताले मूलं तिष्ठतिएष मूलनिवास उक्तः एतत्फलञ्च मूलनक्षत्रं यदायस्मिन्मासे यत्र वसति तत्रैव स्वर्गभूमिपातालेष्वेवोक्त-शुभाशुभफलं ददाति अयमत्र तात्पर्य्यार्थः द्रव्याद्य-भावेन शान्तिकं कर्त्तुमशक्नुवतः पुंसः स्वर्गपातालनि-वासित्वेन मूलस्यारिष्टदोषस्तथा न प्रभवेत् यदा तुभूमावेव निवासस्तदा दोषनिवारणं नैव स्यादित्यश-क्तेनापि शान्तिकं विधेयं नैतावता प्रागुक्ते विषये शा-न्त्यभाव एव किन्तु यथाशक्ति तत्रापि शान्तिकं विधेयंशक्तेन तु सर्वत्रैव विधेयम् तदुक्तं ज्योतिषार्णवे
“मार्गफाल्गुनवैशाखज्यैष्ठे मूलं रसातले। माघाश्विन-नभस्येषु शुचौ मूलं सुरालये। पौषश्रावणचैत्रेषुकार्त्तिके भूमिसंस्थितम्। भूमि{??} दोषबहुलं स्वल्पमन्यत्रसंश्रितम्” क्वचित् सौरमासपरत्वेन मूलनिवासोऽभि-हितः
“वृषालिसिंहेषु घटे च मूलं दिविस्थितं युग्म-तुलाङ्गलान्त्ये। पातालगं मेषधनुः कुलीरनक्रेषु भूमा-विति संस्मरन्ति। स्वर्गे मूले भवेद्राज्यं पाताले च धनागमः। मर्त्यलोके यदा मूल तदा शून्यं समादिशेदिति” ज्यो-तिषरत्नेऽभिहितत्वात्” पी॰ धा॰। अथ मूलप्रसङ्गाद्दु-ष्टेषु गण्डान्तादिनिमित्तेषु सत्सु जातस्यारिष्टं सपरि-हारं शार्दूलविक्रीडितेनाह गण्डान्तेति एतेषु पदार्थेषुसत्सु जनिः शिशोरुत्पत्तिर्न शस्ता दुष्टफलदा गण्डान्तःसन्धिविशेषः स त्रिविधो नक्षत्रतिथिलग्नभेदेन तल्लक्षणंज्येष्ठा पौष्ण्यभेत्यादिना वक्ष्यति इन्द्रभं ज्येष्ठानक्षत्रंशूलः शूलाख्यो दुष्टयोगः पातो महापातो गणित-साध्यो, व्यतीपाताख्यो वैधृताख्यश्च परिघव्याघातगण्डाअपि दुष्टयोगाः अवमस्तिथिक्षयः संक्रान्तिः सूर्य्यस्यराश्यन्तरसंक्रमपुण्यकालः व्यतोपोतवैधृती सप्तदशसप्तविं-शतितमौ दुष्टयोगौ सिनीवाली दृष्टेन्दुरमावास्या। कुहू-[Page2510-b+ 38] र्नष्टेन्दुरमावस्या
“सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुक-ला कुहूः” इत्यभिधानात् दर्शश्चन्द्रदर्शनरहितामावास्या ए-तच्चाग्रे सम्यक् प्रतिपादयिष्यते वज्रे दुष्टयोगे कृष्णे कृष्णपक्षेचतुर्दशी बहुवचनमावृत्त्यभिप्रायं यमघण्टे मघाविशाखे-त्युक्ते दुष्टयोगे दग्धयोगे सूर्य्येशपञ्चाग्निरसाष्टनन्दाइत्युक्ते दुष्टयोगे केचित्तु चापान्त्यगे गोघटगे पतङ्ग” इति वक्ष्यमाणो दुष्टयोग इपि व्याचख्युः। मृतौ द्वीशा-त्तोयादित्यादिनोक्ते भृत्युयोगे विष्टौ भद्रायां सोदरस्यभ्रातुर्भगिन्या वा भे नक्षत्रे पितृभे माता च पिता चपितरौ तयोर्भे मातृभे पितृभे च एषु निमित्तेषु सुतस्यसुताया जन्म चेत् स्यात्तदनिष्टकृत् स्यादित्यर्थः। दुष्ट-निमित्तस्योपलक्षणत्वात् सूर्य्यचन्द्रग्रहणजन्मत्रीतरजन्मा-प्यनिष्टं सजातीयापत्यत्रयप्रसवानन्तरं विजातीयाप-त्यप्रसवस्त्रीतरः तथा पुत्रत्रयप्रसवानन्तरं कन्याया जननंकन्यात्रयप्रसवानन्तरं पुत्रस्य जननम् अतएव{??}सजातीयेभ्यः इतरो विजातीयस्त्रीतरः स्त्री च त्रीत-रेति व्युत्पत्तिश्च त्रीतरश्च त्रीतरा च त्रीतरौ पुमान्स्त्रियेत्येकशेषः अथ परिहारोऽप्युच्यते सा जनिःशान्तितो वसिष्ठाद्यर्षिप्रोक्तायाः शान्त्याः शुभा परिणा-मे सुखदायिनी शारीरक्लेशानुभवपूर्वकनीरोगदीर्घायुष्ट्वंशिशोः स्यादित्यर्थः। अत्र मूलवाक्यानि लिख्यन्ते। तत्र प्राक्पद्यप्रतिज्ञातसकलशान्तिसामान्यकर्मौपयिकीच मूलशान्तिस्तावदुच्यते। शौनक उवाच। अथातःसम्प्रवक्ष्यामि मूलजातहिताय च। मातापित्रोर्धन-स्यापि कुले शान्तिहिताय च। त्यागो वा मूलजातस्यस्यादष्टाव्दात् प्रदर्शनम्। अभुक्तमूलजातानां परित्यागोविधीयते। अदर्शने वापि पिता स तु तिष्ठेत् समा-ष्टकम्। एवं च दुहितुर्ज्ञेयं मूलजातफलं बुधैः। मुख्यकालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः। जातस्यजननाहे तु जन्मर्क्षे वा शुभे दिने। समाष्टके वा मति-मान् कुर्याद्वै शान्तिमादरात्। यदेव शान्तिकं कुर्य्यात् कर्मतत्तु प्रचक्ष्महे” अधिकं तत्र दृश्यम्।
“गण्डेषु स्फुटरचनाब्जपत्रवल्ली”
“गण्डोज्वलामु-ज्वलनाभिचक्रया” इति च माघः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्ड¦ m. (-ण्डः)
1. A cheek, the whole side of the face including the tem- ple.
2. An elephant's temple or cheek.
3. A boil, a pimple.
4. A mark, a spot.
5. A bubble.
6. A knot.
7. A rhinoceros: (see गण्डक)
8. Part of a horse's trappings, a stud or button fixed as an orna- ment upon the harness.
9. A hero.
10. The abrupt interchange of question and answer, as one of the characteristics of the dramatic composition called Vithi.
11. The tenth Yoga, or one of the twenty-seven portions of a circle on the plane of the ecliptic: see योग।
12. An astronomical period. E. गडि to affect the cheek, अच् affix, or गम् to go, ड Unadi aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डः [gaṇḍḥ], 1 The cheek, the whole side of the face including the temples; गण्डाभोगे पुलकपटलम् Māl.2.5; तदीष- दार्द्रारुणगण्डलेखम् Ku.7.82; Me.26,93; Amaru.83; Ṛs.4.6;6.1; Ś.6.18; Śi.12.54.

An elephant's temple; गण्डोड्डीनालिमाला˚ Māl.1.1.

A bubble.

A boil, tumour, swelling, pimple; अयमपरो गण्डस्योपरि विस्फोटः Mu.5; तदा गण्डस्योपरि पिटिका संवृत्ता Ś.2.

Goitre and other excrescences of the neck.

A joint, knot.

A mark, spot; गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया Śi.12.8.

A rhinoceros.

The bladder.

A hero, warrior.

Part of a horse's trappings, a stud or button fixed as an ornament upon the harness.

An unexpected combination of words consisting in putting one speech immediately after another, so as to be syntactically connected; see वीथि; e. g. राक्षसः- अपि नाम दुरात्मा चाणक्यबटुः । दौवारिकः जयतु । -रा˚ -अति- संधातुं शक्यः स्यात् । दौ˚ -अमात्यः । Mu.4; so किमस्या न प्रेयो यदि पुनरसह्यस्तु विरहः. दौ˚ -देव उपस्थितः U.1.

The tenth yoga or one of the twenty-seven portions of a circle on the plane of the ecliptic.

An astronomical period. -Comp. -अङ्गः a rhinoceros. -उपधानम् a pillow; मृदुगण्डोपधानानि शयनानि सुखानि च Suśr. -कुसुमम् the juice that exudes from the elephant's temples during rut, ichor.

कूपः a well on the peak or summit of a mountain.

Upper region or table-land of a mountain. -ग्रामः any large or considerable village.

देशः, प्रदेशः, स्थलम्, पाली, पिण्डः the cheek, the temples of an elephant.

temple-region (in general); कण्डूलद्विपगण्डपिण्डकषणम् U.2.9; Māl.9.31. -फलकम् a broad cheek; धृतमुग्धगण्डफलकैर्विबभुर्विकसद्भिरास्यकमलैः प्रमदाः Śi.9.47. -भित्तिः f.

the opening in the temples of an elephant from which ichor exudes during rut.

'a wall-like cheek', an excellent i. e. broad and expansive cheek; निर्धौतदानामलगण्डभित्तिः (गजः) R.5.43 (where Malli. says प्रशस्तौ गण्डौ गण्डभित्ति, see et seq.); 12.12.-भेदः a thief; गण़्डभेददास्याः शीलं जानन्नापि आत्मनो भोजनविस्रम्भेण छलितो$स्मि Avimāraka 2. -मालः, -माला inflammation of the glands of the neck. -मूर्ख a. exceedingly foolish, very stupid. -शिला any large rock; दृष्टो$ङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः Bhāg.3.13.22.

शैलः a huge rock thrown down by an earthquake or storm; Ki.7.37; cf. also गण्डशैलैः कारवेल्लैर्लोहकण्टकवेष्टितैः । (अचलः परिपूर्णो$यम् ...) Parṇāl 4.75.

the forehead; गण्डशैलः कपोले च द्रोणपाषा- णभेदयोः । Nm.; किं पुत्रि गण्डशैलभ्रमेण नवनीरदेषु निद्रासि । Āryā Saptaśatī. -साह्वया N. of a river, also called गण्डकी.

स्थलम्, स्थली the cheek; गण्डस्थलेषु मदवारिषु Pt.1.123; Ś. Til.7; गण्डस्थलीः प्रोषितपत्रलेखाः R.6.72; Amaru.82.

temples of an elephant.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्ड m. (See. गल्ल)the cheek , whole side of the face including the temple (also said of animals e.g. of an ox VarBr2S. ; of a horse ib. ; of an elephant [See. -करट] Pan5cat. BhP. etc. ) Ya1jn5. etc. ( ifc. f( आ). R2itus. ; f( ई). Katha1s. xx )

गण्ड m. the side , Ramapujasar.

गण्ड m. a bubble , boil , pimple Sus3r. S3ak. ii (Prakrit) Mudr. Vop.

गण्ड m. a goitre or any other excrescence of the neck AitBr. i , 25 Car. i Sus3r.

गण्ड m. a joint , bone L.

गण्ड m. the bladder L.

गण्ड m. a mark , spot L.

गण्ड m. part of a horse's trappings , stud or button fixed as an ornament upon the harness L.

गण्ड m. a rhinoceros(See. गण्डकand डा-ङ्ग) L.

गण्ड m. a hero(See. गण्डीर) L.

गण्ड m. " the chief " , best , excellent (only in comp. ; See. -ग्राम, -मूर्ख, -शिला, etc. ) L.

गण्ड m. N. of the 10th astrological योग

गण्ड m. an astronomical period(See. गण्डा-न्त) W.

गण्ड mn. the abrupt interchange of question and answer (one of the characteristics of the dramatic composition called वीथि) Sa1h. vi , 256 and 260 Das3ar. Prata1par.

"https://sa.wiktionary.org/w/index.php?title=गण्ड&oldid=498800" इत्यस्माद् प्रतिप्राप्तम्